Mandukya upanishad pandit jasraj biography




  • Mandukya upanishad pandit jasraj biography
  • [MEMRES-5]!

    माण्डूक्योपनिषत्

    माण्डूक्योपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा वर्तते । इयम् उपनिषत्अथर्ववेदे अन्तर्भवति । अस्याम् उपनिषदि १२ मन्त्राः विद्यन्ते । क्षराक्षरवस्तुनिर्देशरूपस्य ओङ्कारस्य व्याख्यानमेव अत्र प्रमुखः उद्देशः । अतः तस्य उपव्याख्यानम् तन्नाम् ओङ्कारस्य उपव्याख्यानम् इति आरम्भवाक्ये एव निर्दिष्टं वर्तते ।

    शान्तिमन्त्रः

    सम्पादयतु

    ॐ सह नाववतु ।
    सह नौ भुनक्तु ।
    सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै॥
    ॐ शान्तिः शान्तिः शान्तिः॥
    ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।
    भद्रं पश्येमाक्षभिर्यजत्राः
    स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः।
    व्यशेम देवहितम् यदायुः।
    स्वस्ति न इन्द्रो वृद्धश्रवाः।
    स्वस्ति नः पूषा विश्ववेदाः।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
    स्वस्ति नो बृहस्पतिर्दधातु
    ॐ शान्तिः शान्तिः शान्तिः॥

    ओङ्कारस्य स्वरूपम्

    सम्पादयतु

    'ओङ्कारः' इत्येतद् अत्यन्तं व्यापकः ब्रह्मनिर्देशः । सदसत्, क्षराक्षरम्, दृश्यादृश्यम्, आत्मानात्मा, चिदचित् इत्येतत् सर्वमपि ओङ्कारेण निर्दिष्टानि भवन्ति । अपि च आत्मानात्माती